मम प्रियः कविः - कालिदासः। Sanskrit essay on my favourite poet Kalidas
मम प्रियः कविः - कालिदासः।
पुरा कवीनां गणनाप्रसड्गे कनिष्ठिकाधिष्ठित कालिदासः।
अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव॥
संस्कृतसाहित्ये सर्वेषु कविषु रसिकप्रियः कविः कालिदासः। मम अपि प्रियः कविः कालिदासः। कालिदेव्ययाः प्रसादेन एषः काव्यप्रतिभां लब्धवान् इति किंवदन्ती प्रचलति। तस्मात् कालिदासः इति तस्य नाम अभवत्।
कालिदासेन त्रीणि नाटकानि रचितानि। तस्य 'अभिज्ञानशाकुन्तलम्' एतत् नाटकं विश्वप्रसिद्धम्। तस्य 'मेघदूतम्' एतत् खण्डकाव्यं संस्कृतसाहित्ये विराजते। कालिदास: ‘रघुवंशं’ तशा ‘कुमारमम्भवम्’ एते द्ववे महाकाव्ये अरचयत्। अतः सः महाकविः इति उपाधिना विभूषितः।
ततः दीपशीखा-कालिदासः इति तस्य ख्यातिः अभवत् । सः उपमालड्काररचने निपुणः आसीत्। अतः ‘उपमा कालिदासस्य’ इति उक्तिः तस्य विषये प्रसिद्धा।
Comments
Post a Comment