व्यसने मित्रपरीक्षा। भाषाभ्यासः। Vyasane Mitraparishka Bhashabhyas Answers |
द्वितीयः पाठः।
व्यसने मित्रपरीक्षा।
😄भाषाभ्यासः।
१. पूर्णवाक्येन उत्तरं लिखत।
अ) अरण्ये कौ निवसतः स्म?
अरण्ये चित्राड्गः नाम मृगः एकाक्षः नाम काकः च निवसतः स्म।
आ) काकः किम् उपादिशत्?
‘अकस्मात् आगन्तुना सह मित्रता न युक्ता’ इति काकः उपादिशत्।
इ) मृगः प्रत्यहं गत्वा किम् अकरोत्?
मृगः प्रत्यहं गत्वा सस्यम् अखादत्।
ई) क्षुद्रबुद्धिः कुत्र निभृतं स्थितः?
क्षुद्रबुद्धिः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।
उ) शृगालः केन हतः?
मृगं उद्दिश्य क्षेत्रपतिना क्षिप्तेन लगुडेन शृगालः हतः।
२. कः कं वदति?
अ)‘वनेऽस्मिन् एकं सस्यपूर्णं क्षेत्रमस्ति।’
शृगालः मृगं वदति।
आ)‘मित्र, छिन्धि तावन्मम बन्धनम्।’
मृगः शृगालं वदति।
इ)‘स वज्चकः क्वास्ते?’
काकः मृगं वदति।
३. प्रश्ननिर्माणं कुरुत।
अ)शृगालः मृगेण सह मित्रताम् ऐच्छत्।
शृगालः केन सह मित्रताम् ऐच्छत्?
आ)प्रदोषकाले मृगमन्विष्यन् काकः क्षेत्रे उपस्थितः।
कदा मृगमन्विष्यन् काकः क्षेत्रे उपस्थितः?
इ) सः वृक्षस्य पृष्ठतः निभृतं स्थितः।
सः वृक्षस्य पृष्ठतः कीदृशं/ कथं स्थितः?
४. उत्तरपदं लिखत।
अ) काकोऽवदत् = काकः + अवदत्।
आ) मृगेणोक्तम् = मृगेण + उक्तम्।
इ) जम्बूकोऽयम् = जम्बूकः + अयम्।
५. पूर्वपदं लिखत।
अ) मृगोऽब्रवीत् = मृगः + अब्रवीत्।
आ) वातेनोदरम् = वातेन + उदरम्।
इ) मृतोऽसि = मृतः + असि।
६. सूचनानुसारं कृतीः कुरुत।
अ) मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्।
(त्वान्त-अव्ययं निष्कासयत)
मृगः प्रत्यहं तत्र अगच्छत् सस्यम् अखादत् च।
आ) मित्र छिन्धि तावन्मम बन्धनम्।
(लकारं लिखत)
छिन्धि – लोट्लकारः।
इ) वयम् आनन्देन एकत्र निवसामः।
(लट्लकारस्थाने लड्लाकरं योजयत)
वयम् आनन्देन एकत्र न्यवसाम।
ई) त्वं पादान्स्तब्धीकृत्य तिष्ठ।
(‘त्वं’ स्थाने ‘भवान्’ योजयत)
भवान् पादान्स्तब्धीकृत्य तिष्ठतु।
उ) भवानपि अपरिचितः एव आसीत्।
(‘भवान्’ स्थाने ‘त्वं’ योजयत)
त्वमपि अपरिचितः एव आसीः।
ऊ) त्वं सत्वरं पलायिष्यसे।
(‘त्वं’ स्थाने ‘भवान्’ योजयत)
भवान् सत्वरं पलायिष्यते।
७. स्तम्भमेलनं कुरुत।
विशेषणम्
|
विशेष्यम्
|
दृढः
|
बन्धः
|
क्षिप्तेन
|
लगुडेन
|
एकस्मिन्
|
दिने
|
लगुडहस्तः
|
क्षेत्रपतिः
|
८. जालरेखाचित्रं पूरयत।
९. तालिकां पूरयत। ( वक्त्रा संवादं मेलयत)
जम्बुकः
|
मृगः
|
दर्शयामि त्वाम्
|
त्रायस्व माम्
|
दृढोऽयं बन्धः
|
छिन्धि मम बन्धनम्
|
मृगः
|
काकः
|
अलं विवादेन
|
कोऽयं द्वितीयः?
|
अस्मत्सख्यम् इच्छति
|
एवमस्तु
|
११. अमरकोषात् समानार्थकं शब्दं योजयित्वा वाक्यं पुनर्लिखत।
अ)अरण्ये मृगः काकः च स्नेहेन निवसतः।
अरण्ये हरिणः काकः च स्नेहेन निवसतः।
आ)जम्बूकः तेन सह मृगस्य निवासस्थानं गतः।
शृगालः तेन सह मृगस्य निवासस्थानं गतः।
इ)मृगमन्विष्यन् काकः तत्र उपस्थितः।
मृगमन्विष्यन् बलिपुष्टः तत्र उपस्थितः।
१२. विरुद्धार्थकशब्दं लिखत।
अ) दृढः – शिथिलः, अदृढः।
आ)मैत्री – शत्रुत्वम्।
इ)बद्धः – मुक्तः।
ई)प्रभूतम् – अल्पम्।
Comments
Post a Comment